461 प्रत्यभिज्ञाविकल्पः

मूलम्

अथ सोऽयं घट इति ज्ञानमेकमुत द्वयम् । ग्रहणं स्मरणं चेदं निरन्तरसमुद्भवात् ॥

टीका

न्या. म.[448]

मूलम्

प्रत्यभिज्ञां विदुः ज्ञानद्वयमित्येव सौगताः । तार्किकाः पुनरन्येऽपि प्राहुस्तां ग्रहणात्मिकाम् ॥

मूलम्

परे सांकर्यसोढारस्तामिच्छन्त्युभयात्मिकाम् । दर्शनादर्शनाभ्यां च व्यवस्थोपाधिनीतितः ॥