मूलम्
सत्त्वासत्त्वविकल्पोऽपि प्रसङ्गादिह कीर्त्यते । व्यक्तीभविष्यति प्रायः विदानं सर्वदर्शने ॥
मूलम्
सत्त्वं प्रमाणसंबन्धः कालसंबन्ध इत्यपि । अर्थक्रियाकारिता वा निर्विकारत्वमेव वा ॥
मूलम्
सत्ताश्रयत्वं द्रव्यत्वं महासामान्य़मित्यपि । व्यवहारार्हता वा स्याद्यद्वा नानास्वभावता ॥
मूलम्
वस्तुत्वं वाऽथ भावत्वं ध्रुवोत्पादविनाशिता । एवमादिप्रभेदेन बुधैस्तैस्तैर्निरुच्यते ॥
मूलम्
असत्त्वमपि चैवेत्थं विपश्चिद्भिर्विकल्प्यते । असत्तुच्छं निःस्वभावमळीकं शून्यमित्यपि ॥
मूलम्
आरोपितमनिर्वाच्यमध्यस्तं कल्पितं तथा । निरुपाख्यं च निष्प्रख्यं विचारासहतापि वा ॥
मूलम्
विवर्तं संवृतं मिथ्याऽभावो व्यावृत्तमित्यपि । निषिद्धं चेत्येवमाद्यान् शब्दानत्र प्रयुञ्जते ॥
मूलम्
प्रायस्तेषामर्थभेदः कल्प्यते पारिभाषिकः । केचित्क्वचित्त्वैकदृष्ट्या कुर्युः खण्डनमण्डने ॥
मूलम्
कैश्चिच्च देशकालादिनियतं चोभयं मतम् । अतो विधिर्निषेधश्च नास्त्येव निरुपाधिकः ॥
मूलम्
इत्येतेषामभिप्रायः, अत एव परे बुधाः । नैरात्म्यं वाऽथ सार्वात्म्यमर्थानामिति जानते ॥
टीका
वा. प.[2-441]
मूलम्
पूर्वां कोटिं माध्यमिकाः पश्चिमामार्हताश्श्रिताः । अन्तरा सर्वसिद्धान्ता इति तत्त्वविदो विदुः ॥