मूलम्
इत्यस्य विवृतिः काचित् एषा सर्वार्थसिद्धितः । संगृह्य लिखिता ज्ञेया धीमतां तत्र विस्तरः ॥
मूलम्
अथ संवृतिसत्यत्वं संवृतेस्सत्यतेष्यते । यद्वा संवृतिसंबन्धात्सत्यतेत्यभिधीयते ॥
मूलम्
सत्यत्वेन त्वसत्यं वा किं संवृत्याऽवभासते । संवृत्यां भ्रमरूपायां तथा वा भानमुच्यते ॥
मूलम्
यद्वा तैमिरिके केशस्तवकभ्रान्तिरीतितः । संवृत्याख्ये दोषभेदे किमध्यस्तमितीर्यते ॥
मूलम्
संवृतेस्सत्यतापक्षः वार्तिकेन विशोधितः । द्वितीयादिविकल्पानां समाधिरभिधीयते ॥
मूलम्
अथ संवृतिसंबन्धात् स्वभावादन्यजातिमत् । अन्यजातीयतां यायादिति दृष्टं न हि क्वचित् ॥
मूलम्
अन्यथाख्यातिरेवेयं स्यात्तृतीयतुरीययोः । पञ्चमे संवृतिर्दोष इति नैव प्रसिद्ध्यति ॥
मूलम्
दूरासन्नत्व सादृश्यकाचादिषु हि दोषता । व्यावहारिकसत्यत्वमित्यत्राप्येवमूह्यताम् ॥