458 कुमारिलखण्डनम्

मूलम्

संवृतेर्न तु सत्यत्वं सत्यभेदः कुतो न्वयम् । सत्यं चेत् संवृतिः केयं मृषा चेत्सत्यता कथम् ॥

मूलम्

सत्यत्वं न च सामान्यं मृषार्थपरमार्थयोः । विरोधान्न हि वृक्षत्वं सामान्यं वृक्षसिंहयोः ॥

मूलम्

तुल्यार्थत्वेऽपि तेनैषां मिथ्यासंवृतिशब्दयोः । वञ्चनार्थ उपन्यासः लालावक्त्रासवादिवत् ॥

मूलम्

नास्तिक्यपरिहारार्थं संवृतिः कल्पनेति च । कल्पनाऽपि त्वभिन्नस्य नैव निर्वस्तुके भवेत् ॥

मूलम्

तस्माद्यन्नास्ति नास्त्येव यत्त्वस्ति परमार्थतः । तत्सत्यमन्यन्मिथ्येति न सत्यद्वयकल्पना ॥

मूलम्

स्वप्नादिभोगवच्चापि योपभोगस्य कल्पना । तन्निवृत्त्यर्थमेवेह परमार्थे प्रयत्यते ॥