मूलम्
संवृतिर्नाम या तत्त्वं संवृणोति स्वभावतः । तिरस्करोति दोषात्मा सा संवृतिपदाभिधा ॥
मूलम्
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥
मूलम्
इति बौद्धवचोऽनूद्य प्रवृत्तं श्लोकवार्तिकम् । अत्रावधेयं यन्मूलमनिर्वाच्यवचोऽपि च ॥