456 ईश्वरशक्तिः

मूलम्

सर्वसत्यत्वसिद्धान्ते भगवान् सर्वशक्तिमान् । क्षेत्रज्ञकर्मानुगुणजगन्निर्माणदीक्षितः ॥

मूलम्

तदसाधारणानर्थान् कांश्चित् साधारणानपि । सृष्ट्वाऽनुभावयत्येतानिति श्रीभाष्यनिर्णयः ॥

टीका

श्रीभा. ख्यातिवादः[ ]

मूलम्

अविद्याशक्तिरेकत्र विष्णुशक्तिः परत्र तु । उभयत्रोपपत्तिस्तु समेति विबुधा विदुः ॥

मूलम्

ईश्वरस्य तु माहात्म्यं ज्ञायते चरमे मते । व्यवहारदृशाऽन्यैरप्येतदभ्युपगम्यते ॥

मूलम्

उभयोरप्यनुष्ठाने न विशेषोऽस्ति कश्चन । न लोकसंकरो नापि व्यवहारस्य संकरः ॥

मूलम्

अभिप्रायप्रभेदस्तु विचित्रः प्रतिपूरुषम् ।

टीका

श्लोक.[218]