455 अविद्याशक्तिः

मूलम्

दुर्घटत्वमविद्यायाः भूषणं न तु दूषणम् । इत्येकमेव ब्रह्मास्त्रं परैः प्रतिनिधीयते ॥

मूलम्

अविद्यावागुरा सैषा यथा विज्ञानवागुरा । वासनावागुरा सर्वं पुरुषो वासनामयः ॥