मूलम्
उपायानां स्वरूपं हि संवृत्यात्मकमेव चेत् ।संवृत्या यत्स्वरूपं स्यात्तद्वाङ्मात्रानिबन्धनम् ॥
मूलम्
इतोऽपि विस्तरस्तत्र द्रष्टव्यस्सूक्ष्मदर्शिभिः ।संवृतेरपि यत्तत्त्वं तत्पुरस्ताद्विविच्यते ॥
मूलम्
मर्यादास्थापनार्थं च मानतर्कौ समुत्थितौ ।सिंहारण्यवदन्योन्यं गुप्तौ तौ स्वान्यसाधकौ ॥
मूलम्
परमर्यादया ब्रूमः परव्याहतिमित्यसत् ।स्वव्याघातादिभङ्गानां परानङ्गीकृतेरिति ॥
मूलम्
सदसद्व्यतिरेकोऽपि विरुद्धो यदि गृह्यते ।सदसद्रूपता किन्नु प्रतीता तु न गृह्यते ॥
मूलम्
अनुष्णाशीतवत्तुच्छाद्ब्रह्मणश्चातिरेकिता । साध्येत ख्यातिबाधादेर्यदि, सिद्धं तदत्र नः ॥
मूलम्
स्वशास्त्रनिर्णये सत्ये सत्यास्स्युर्लोकनिर्णयाः । स्वशास्त्रनिर्णयेऽसत्ये सत्यास्स्युर्लोकनिर्णयाः ॥
मूलम्
न च विश्वस्य बाधोऽपि स्वरसादुपजायते । अप्रतिष्ठितयुक्त्या तु बाधः सर्वं हि संस्पृशेत् ॥
मूलम्
मिथ्यात्वेन च दृश्यत्वं स्वतस्सम्बन्धि साधयन् । अप्रामाण्यस्वतस्सिद्धिमुदिगिरत्यनया दिशा ॥
टीका
स. सि.[3-50]
मूलम्
अविद्यां विश्वजननीमर्धपञ्चमरूपिणीम् । निवृत्तिपञ्चमाकारां कल्पयन्तोऽप्यधःकृताः ॥
टीका
स. सि.[4-18]
मूलम्
एवमाद्यैर्वचोभेदैः प्रायः खण्डनखण्डनैः । अनिर्वाच्यख्यातिपक्षे प्रतिपक्षान् प्रचक्षते ॥