मूलम्
असत्यासत्यनिष्पत्तिप्रतिपत्ती मते यदि ।असत्यादप्यधिष्ठानादध्यासः किं न कल्प्यते ॥
मूलम्
अत्र कौमारिलं श्लोकवार्तिकं श्रूयतां पुनः ।सिद्धिर्नापरमार्थेन परमार्थस्य युज्यते ॥
टीका
श्लोक.[255]
मूलम्
न दृष्टा शशशृङ्गादेः सम्यज्ज्ञानादिहेतुता ।बाष्पादिनाऽप्यधूमेन मिथ्यावह्न्यादिबोधनम् ॥
मूलम्
तस्मादस्त्यहेतोर्या परमार्थे मतिस्तव ।साऽप्यसत्य़ा न सत्यं हि सत्याभासेन गम्यते ॥
मूलम्
येऽपि रेखादयो दृष्टा वर्णानां प्रतिपादकः ।न ते स्वेनापि रूपेण परमार्थत्ववर्जिताः ॥
मूलम्
वर्णात्मना न स्त्याश्चेत् सर्वभावेष्वयं विधिः ।पदार्थान्तररूपेण न सत्यं किंचिदिष्यते ॥
मूलम्
मणिप्रदीपप्रभयोर्मणिबुद्ध्याऽभिधावतोः ।मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ।.
मूलम्
काव्यप्रकाशसंकेते धर्मकीर्तिवचस्त्विदम् ।उदाहृतं हि तत्रापि मणेरंशो मणिप्रभा ॥
टीका
काव्यप्रकाश. स.[69]
मूलम्
अंशेन चांशिनो लाभे नासत्यात्प्रतिपत्सती ।असत्यात्सत्यनिष्पत्तिवादोऽप्यन्यत्र विस्तृतः ॥