मूलम्
अनिर्वाच्यख्यातिपक्षाक्षेपोऽयमवधार्यताम् ।प्रपञ्चसत्यसिद्धान्तवादिभिः प्रकटीकृतः ॥
टीका
स. सि.[4-16]
मूलम्
अनिर्वाच्यानिर्वचत्वे भवेत्सर्वं निरुक्तिमत् ।अथाखिलेऽप्यनिर्वाच्ये तत्त्वं स्याद्ब्रह्मतुच्छयोः ॥
मूलम्
अस्तु तत्प्रस्तुतस्यात्र न बाध इति चेत्तदा ।तुर्यसौगतसिद्धान्तगर्तान्तःपतनं ध्रुवम् ॥
मूलम्
जाते च सदसद्बाह्ये सदसद्धीः क्रमात्सती ।स्वच्छायामिव दुर्ल्लङ्घामन्यथाख्यातिमावहेत् ॥
मूलम्
अन्यथा ख्यातिरस्तीति परबुद्धिं निशेधता ।दृष्टा तदन्यथा ख्यातिः अन्यथा किं निषिध्यते ॥
मूलम्
असच्चेन्न प्रतीयेतेत्येतल्लोकविसंमतम् ।प्रतीयमानमेवैतन्मृगतोयमसन्मतम् ॥
मूलम्
प्रपञ्यचो यदि बाध्येत सोऽसन्नेव भवेत्सदा ।बाधायां न हि वैजात्यं कल्प्यं लोकविलक्षणम् ॥
मूलम्
सर्वदैवाप्रतीतं यदसदित्युच्यते यदि ।कथं भवान् तत्प्रत्येति प्रत्य़ाययति नः कथम् ॥
मूलम्
शून्यं तुच्छमसच्चेति सदेवास्माभिरुच्यते ।खरे शृङ्गं नरे गोत्वमित्यादेस्तादृशत्वतः ॥