451 प्रातिभासिकोत्पत्तिः

मूलम्

प्रातिभासिकवस्तूनामेवमुत्पत्तिरुच्यते ।दुष्टेन्द्रियस्येदमर्थाकाराऽऽदौ वृत्तिरुद्भवेत् ॥

टीका

वेदान्तपरिभाषा.[ ]

मूलम्

तस्यां वृत्ताविदमवच्छिन्ना चित्प्रतिबिम्बते ।ततः प्रमात्रभिन्नेऽस्मिन्विषये शुक्तिकात्मनि ॥

मूलम्

याऽविद्या सा हि रजतसंस्कारसचिवा सती ।काचादिदोषसहिता रजतार्थात्मना तथा ॥

मूलम्

रजताभासात्मना च युगपत्परणामिनी ।अविद्यापरिणामोऽयं रजतं प्रातिभासिकम् ॥

मूलम्

चैतन्यापेक्षया तच्च विवर्त इति चोच्यते ।साक्षिण्यध्यस्तं च ततः वेद्यं केवलसाक्षिणः ॥

मूलम्

चिन्निष्टमप्यवच्छेदाद्भासते हीदमात्मना ।यथा ज्ञानमवच्छेदाच्छरीरे भासते तथा ॥

मूलम्

तथा स्वापन्दयोऽप्यर्थाः तत्तत्कालावसायिनः ।अनिर्वाच्या इति भ्रान्तिर्न हि निर्विषया क्वचित् ॥