मूलम्
सत्ख्यातिपक्षे सामान्यधर्मग्रहणलक्षणे ॥
मूलम्
अप्यंशत्रयमस्तीति नावकाशो विवादिनाम् । यथार्थं सर्वविज्ञानमिति वेदविदां मतम् ॥
टीका
श्रीभा. ख्यातिवादः.[ ]
मूलम्
श्रुतिस्मृतिभ्यः सर्वस्य सर्वात्मत्वप्रतीतितः । सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् ॥
मूलम्
योमावयवसद्भावादिति न्यायविदो विदुः । व्रीह्यभावे च नीवारग्रहणं व्रीहिभावतः ॥
मूलम्
तदेव सदृशं तस्य यत्तद्रव्यैकदेशभाक् । शुक्त्यादौ रजतादेश्च भावः श्रुत्यैव बोधितः ॥
मूलम्
रूप्यशुक्त्यादिनिर्देशभेदः भूयस्त्वहेतुकः । रूप्यादिसदृशश्चायं शुक्त्यादिरुपलभ्यते ॥
मूलम्
अतस्तस्यात्र सद्भावः प्रतीतेरपि निश्चितः ।कदाचिच्चक्षुरादेस्तु दोषाच्छुक्त्यंशवर्जितः ॥
मूलम्
रजतांशो गृहीतोऽतः रजतार्थी प्रवर्तते ।दोषाहानौ तु शुक्त्यंशे गृहीते न प्रवर्तते ॥
मूलम्
अतो यथार्थं रूप्यादिविज्ञानं शुक्तिकादिषु ।बाध्यबाधकभावोऽपि भूयस्त्वेनोपपद्यते ॥
मूलम्
शुक्तिभूयस्त्वसाकल्यवैकल्यग्रहरूपतः ।एवं सर्वस्य सर्वत्वे व्वहारव्यवस्थितिः ॥
मूलम्
एवं स्वप्नादिविज्ञानं तत्तुत्पुंकर्ममूलकम् ।स हि कर्ता सृजति च तादृशार्थानिति श्रुतम् ॥
मूलम्
पीतशङ्खालातचक्रद्विचन्द्रमृगतृष्णिकाः ।लोहितस्फटिकादर्शप्रतिबिम्बादयोऽपि च ॥
मूलम्
यथार्था इति सिद्धान्ताः युक्तिभिः प्रकटीकृतः ।इति सत्ख्यातिसिद्धान्तसंग्रहोऽयं निरूपितः ॥
टीका
स. सि.[4-11]