447 विपरीतख्यातिः

मूलम्

विपरीतख्यातिवादिकुमारिलमतं त्विदम् ॥

टीका

श्लोक.[242]

मूलम्

स्वप्नादिप्रत्यये बाह्यं सर्वथा न हि नेष्यते । सर्वत्रालंबनं ग्राह्यं देशकालान्यथात्मकम् ॥

मूलम्

जन्मन्येकत्र भिन्ने वा तथा कालान्तरेऽपि वा । तद्देशो वाऽन्यदेषो वा स्वप्नज्ञानस्यगोचरः ॥

मूलम्

तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते । तन्निरालम्बनं ज्ञानमभावालम्बनं तु तत् ॥

मूलम्

धर्मान्तरमभावोऽन्यो न कश्चिदनिरूपणात् । विज्ञायते वस्तु सर्वं सदसद्रूपभेदतः ॥

मूलम्

सत्स्यात्स्वरूपेण पुनरसत्स्यादन्यरूपतः । भ्रान्तिरन्यस्य सद्रूपेणान्यद्धि प्रतिपद्यते ॥

मूलम्

अभावधीरप्यन्यस्यासदिरूपेणान्यगोचरा । तेनोभयं ज्ञानमित्थमन्यथासन्तमन्यथा ॥

मूलम्

प्रतिपद्यत इत्युक्तिरेवंरीत्योपपद्यते ।