446 अख्यातिः

मूलम्

अख्यातिपक्षे दोषाद्धीः शुक्तेः केवलधर्मिणः ।धर्मसारूप्यमात्रेण रजतं स्मर्यते तदा ॥

मूलम्

दोषादेषाऽपि च तदा स्मृतित्वेन न गृह्यते ।रजतं च स्मरामीति तदानीमप्रतीतितः ॥

मूलम्

तस्मात्प्रमुषितामेनां स्मृतिमिच्छन्ति तार्किकाः ।रजतस्मरणं शुक्तिग्रहणं चास्ति धीद्वयम् ॥

टीका

प्रक.[4 प्र]

मूलम्

ग्रहणस्मरणे एते विविक्ते अपि तत्तया ।न गृह्येते इति विवेकाग्रहोऽख्यातिरुच्यते ॥

मूलम्

विवेकेन न गृह्येते स्मरणानुभवौ क्वचित् ।स्वपने तु स्मृतिरेवैका तथात्वेन न गृह्यते ॥

मूलम्

द्विधाकृता क्वचिद्वृत्तिः नेत्रस्य तिमिरादिना ।न हि ग्रहीतुमैक्येन शक्नोति शिशिरत्विषम् ॥

मूलम्

क्वचिद्रसनसंपृक्ते पित्ते तिक्तत्ववेदनात् ।परिच्छेत्तुं न शक्नोति माधुर्यं शर्करागतम् ॥

मूलम्

गृह्णाति यत्तु तिक्तत्वं वस्तुतः पित्तवर्ति तत् ।तथा तु न विजानाति निगिरन्नेव शर्कराम् ॥

मूलम्

अख्यातिरेषा सर्वत्र कथंचित्कस्यचिन्मता ।तदेवं सति सर्वत्र सम्यगग्रहणं भ्रमः ॥

मूलम्

एषोऽग्रहस्त्वभावो वा ख्यात्यन्तरमथापि वा ।नाद्योऽभावानुपगमान्नान्त्यस्स्यात्ख्यातिरेव सा ॥

मूलम्

तस्मात्सामान्यधर्मस्य ख्यातिस्स्त्ख्यातिरेव सा ।अख्यातिवादस्सत्ख्यातिवादश्चार्थान्तरं मतः ॥

मूलम्

यथार्थं सर्वमेवेह विज्ञानमिति सिद्धये ।प्रभाकरगुरोर्भावः नयवीथ्यां प्रकाशितः ॥

मूलम्

आहार्यलक्षणस्तर्कोऽप्येवमेवान्यथाकृतः ।संशयोऽपि विरुद्धार्थनानाज्ञानमिहेष्ते ॥

मूलम्

डोलासंयोगवद्वेगो दृढश्चेन्निश्चयो मतः ।ऊहानध्यवसायौ च परोक्तौ संशयात्मकौ ॥

मूलम्

तदन्यत्वेऽपि निर्वाहस्समानन्यायतो मतः ।आत्मनः प्रतिसन्धिर्यः प्रत्यभिज्ञैव सा मता ॥

मूलम्

तच्चैकमेव विज्ञानं न द्वयं सौगतादिवत् । बुद्धिबाधोक्तिरेषा स्यात् अयोग्यं वाक्यमिति, अतः ॥

मूलम्

बुद्धिबाधनिशेधोक्त्या नान्यथाख्यातिसंभवः ।