मूलम्
अन्यथाख्य़ातिवादेऽपि नासद्विषयकल्पना ।इत्तिरपद्ययुगळं ज्ञेयं सर्वार्थसिद्धिगम् ॥
मूलम्
इहत्वारोप्यसंसर्गिसंसर्गासत्त्ववर्णनम् ।नासद्ग्रहणक्लृप्तौ स्यात् प्रमाविषयसाम्यतः ॥
टीका
स. सि.[4-25]
मूलम्
अदुष्टबुद्धौ तत्रैव संसर्गस्सन् विशेषकः ।अन्यत्रसिद्ध एवासौ दुष्टायां दोषवैभवात् ॥
मूलम्
अन्यथाख्यातिवादेऽत्र विशेषांशोऽवधार्यताम् ।कैश्चिदालम्बनं भ्रान्तावुक्तं सूर्यमरीचयः ॥
टीका
न्या. म.[87]
मूलम्
निगूहितनिजाकारास्सलिलाकारधारिणः ।अन्ये त्वालम्बनं प्राहुः पुरोऽवस्थितधर्मिणः ॥
मूलम्
सादृश्यदर्शनोद्भूतस्मृत्युपस्थापितं पयः ।अन्यदालम्बनं चान्यत्प्रतिभातीति केचन ॥
मूलम्
आलम्बनं दिधीतयः तोयं च प्रतिभासते ।कर्तुः करणतो भिन्नं विज्ञानजनकं तु यत् ॥
मूलम्
तदालम्बनमित्युक्तं अन्यथाख्यातिवित्तमैः ।कथंचिदपि विज्ञाने निरालम्बनता हता ॥