444 अर्पिताकारख्यातिः

मूलम्

स्वप्रकाशाध्यक्षसिद्धं विज्ञानं क्षणिकं यतः ।पूर्वापरक्षणस्पर्शितया तत्तु न भासते ॥

मूलम्

नच बाह्यार्थमिथ्यात्वं व्यवहाराव्यवस्थितेः ।नीलादिसन्ततौ पीताद्यनुत्पत्तिप्रसङ्गतः ॥

मूलम्

न प्रत्यक्षस्स बाह्योर्थः संप्रयोगनिरोधतः ।भिन्नकालं कथं ग्राह्यमिति चेद्ग्राह्यतां विदुः ॥

मूलम्

हेतुत्वमेव युक्तिज्ञाः ज्ञानाकारार्पणक्षमम् ।अतो हेतुत्वमेवात्र ग्राह्यत्वेनोपचर्यते ॥

मूलम्

ज्ञानार्थयोस्समुत्पादे तुल्यसामग्र्यधीनयोः ।ज्ञानजन्मनि च ज्ञानमुपादानमितीष्यते ॥

टीका

न्या. म.[15]

मूलम्

अर्थश्च सहकारी स्यात् अर्थोत्पत्तौ विपर्ययः ।अतो हेत्वर्पिताकारः स्वात्मा प्रत्यक्षगोचरः ॥

मूलम्

तेनानुमीयते बाह्यस्सर्वोऽर्थ इति निर्णयः ।एतत्सौत्रान्तिकमतं उभयं किंचिदन्तरम् ॥