मूलम्
अन्ये त्वाहुर्निराकारौ बुद्धिश्चार्थश्च वस्तुतः ।तथापि सितरक्तादिराकारो जायते ततः ॥
टीका
श्लोक.[279]
मूलम्
यथा च रजनीचूर्णसंयोगाद्रागसंभवः ।स एव बाह्य आकारः गृह्यते बुद्धिशक्तितः ॥
मूलम्
अर्थसंसर्गजाकारख्यातिवादोऽयमीरितः ।बाह्याकारार्पिताकारख्यातिवादः पुनर्यथा ॥