442 निरधिष्ठानख्यातिः

मूलम्

एवं निरालम्बवादं शून्यवादं च तादृशम् ।असत्कर्तुं हि सुधिय़ो भारान्तिशिक्षां प्रचक्रिरे ॥

मूलम्

न तत् ज्ञानं नाम किंचित् यत्स्याद्विषयमन्तरा ।तस्माद्भ्रमेऽपि विषयं शोधयन्ति विपश्चितः ॥

मूलम्

बाह्यार्थवादिनः केचित्सौगताः निरधिष्ठितम् ।ख्यातिमिच्छन्ति केशोण्ड्रटिट्टिभादिमतिर्यथा ॥

मूलम्

इदं रजतमित्यत्र पुरोवर्तिनि वस्तुनि ।नाध्यस्यते च रजतं किंतु संस्कारलेशतः ॥

मूलम्

रजतं दोषवशतः भाति स्वयमिदंतया ।ख्यातिस्सा निरधिष्ठाना स्याद्वैभाषिकसम्मता ॥