441 निर्विषयख्यातिः

मूलम्

विकल्पाख्यां वृत्तिमिह शब्दज्ञानानुपातिनीम् ।वस्तुशून्यां विदुः प्राज्ञाः पातञ्जलमतस्थिताः ॥

मूलम्

एते निर्विषयख्यातिवादिनः बौद्धसोदराः ।असत्ख्यातिप्रसङ्गश्च ख्यात्यपह्नव इत्यपि ॥

टीका

स. सि.[4-30]

मूलम्

अस्मिन्निर्विषयख्यातिवादे दोषो न कश्चन ।अख्यातौ वाऽन्यथाख्यातौ विश्रमस्सर्ववादिनाम् ॥

मूलम्

असावन्यासक्तदृष्टिन्यायादिति तदाशयः ।अन्यासङ्गे दृष्टिरेव नोत्पद्यत इतीतरे ॥