मूलम्
कल्पिताकारिणी ख्यातिरसत्ख्यातिरितीतरे ।तत्तु वैभाषिकमतं कल्पनावादिनो हि ते ॥
मूलम्
असतोऽपि भ्रमे भानं केचिद्वेदान्तिनो विदुः ।विसक्षणाऽन्यथाख्यातिरेषोक्ताऽसत्प्रकारिणी ॥
टीका
श्लोक.[327]
मूलम्
शून्यख्यातिं विदुस्तत्र मध्यमागमवादिनः ।योगाचारैः पुनस्तत्र न्याय एष प्रयुज्यते ॥
मूलम्
स्तम्भादिप्रत्ययो मिथ्या प्रत्ययत्वात्तथा हि यः ।प्रत्ययस्स मृषा दृष्टः स्वप्नादिप्रत्ययो यथा ॥
मूलम्
तत्र प्रत्यक्षबाधोक्तौ शून्य़ख्यातिं समाश्रिताः ।तां चाकारयुतां केचित्केचितस्वच्छां विजानते ॥