मूलम्
अथ भ्रान्तिज्ञानतत्त्वं किंचिदत्रावधार्यताम् ।आत्मख्यातिरसत्ख्यातिः अन्यथाख्यातिरित्यपि ॥
टीका
अधिकरण.[2-2-30]
मूलम्
अख्यातिस्सदसद्भिन्नख्यातिस्सत्ख्यातिरित्यपि ।शून्यख्यातिश्च निरधिष्ठानख्यातिहाष्टमी ॥
मूलम्
अर्थसंसर्गजाकारख्यातिश्च ननवमी मता ।बाह्याकारार्पिताकारख्यातिस्तु दशमी स्थिता ॥
मूलम्
भ्रान्तिस्थले पक्षभेदाः विद्वद्भिरुररीकृताः ।तेषां विभागवचनमेतदत्र प्रवर्तते ॥
मूलम्
तत्रार्थशून्यं विज्ञानं योगाचारास्समाश्रिताः ।आत्मख्यातिं विदुः स्वप्ने ह्यसत्ख्यातिं च जाग्रति ॥