438 ज्ञानप्रकाशसङ्ग्रहः

मूलम्

स्वयं प्रकाशते ज्ञानं त्रिपुटीज्ञानवादिनाम् ।मानसप्रत्यक्षवादः तारकिकैरुररीकृतः ॥

मूलम्

ज्ञानातीन्द्रियवादं तु कौमारिलमतं विदुः ।अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ॥

टीका

भा. भा.[123]

मूलम्

सहोपलम्भनियमादभेदो नीलतद्धियोः ।इति वादो निराकारि ज्ञानातीन्द्रियवादिभिः ॥

मूलम्

क्षणान्तरविलम्बेन मानसाध्यक्षवादिभिः ।स्वानुभूतिविरोधेन स्वप्रकाशत्ववादिभिः ॥

मूलम्

विज्ञानवादो निर्धूत इति वेदान्तपद्धतिः ।तस्मात्सौगतशिक्षार्थं मतिजाड्यमिति स्थितम् ॥

टीका

न्या. म.[17]

मूलम्

एवं प्रमाप्रमाणानां प्रायः तत्त्वं विचारितम् ।विशिष्य विस्तरः तत्तत्तैर्थिकैः प्रकटीकृतः