436 नैयायिकादिमतम्

मूलम्

अन्यख्यातिमिच्छन्तस्त्वनिच्छन्तस्स्मृतिं प्रमाम् ।व्यवहारस्यानुगुणं ज्ञानमन्ये प्रमां विदुः ॥

मूलम्

तथाऽऽर्हताः पुनरभिमतानभिमतार्थयोः ।परिग्रहपरित्यागक्षमं ज्ञानं प्रमा विदुः ॥

मूलम्

बुद्बुदपक्ष्यादौ विसंवादस्त्वपक्रमात् ।तथा मणिप्रभास्थाने संवादोऽन्यनिबन्धनः ॥

मूलम्

विषय कारतापन्नेन्द्रियवृत्त्यनुपातिनी ।पुरुषेणोपरक्ता च बुद्धिवृत्तिः प्रमा मता ॥

मूलम्

पातञ्जलैः कापिलैश्च चेतनाशक्त्यनुग्रहः ।पौरुषेयो बोध इति चिच्छायेत्यपि कीर्त्यते ॥