मूलम्
एवमस्य स्वतस्त्वस्य विशेषांशो विचारितः ।अथ प्रामापदार्थस्य विकल्पोऽयं विमृश्यताम् ॥
मूलम्
ज्ञानं प्रमेति सिद्धान्तस्स्यान्निरालम्बवादिनाम् ।आत्मख्यातिं विदुः स्वप्ने भ्रमे चापि भिदा ततः ॥
मूलम्
अविसंवादिविज्ञानं प्रमेत्याहुरथापरे ।वैभाषिकादयः, भ्रान्तिर्निरधिष्ठानधीर्मता ॥