434 स्वतःप्रामाण्यरहस्यम्

मूलम्

सोऽपि स्वतः कथं सिद्ध इति चेदवधार्यताम् ।अस्ति स्वालम्बनं ज्ञानं प्राकाशयदिति स्फुटम् ॥

मूलम्

ज्ञानान्तरानपेक्षं तत्स्वयमेव प्राकाशते ।इति तावत्स्वप्रकाशवादिवेदान्तिसम्मतम् ॥

मूलम्

अस्वप्रकाशवादेऽपि व्यवसायो हि गृह्यते ।प्रागनुव्यवसायेनासंशयात्मैव केवलम् ॥

मूलम्

स्मृत्यप्रामाण्यवादेऽपि स चापूर्वार्थगोचरः ।अबाधितोऽविपर्यस्तः मतः स्मृतिवितक्षणः ॥

मूलम्

ततो यद्विषयत्वेन व्यवसायः प्रकाशते ।परस्परपरिक्षोदात्पश्चादपि तथैव सः ॥

मूलम्

यत्तद्विषयतारूपं प्रामाण्यं व्यवतिष्ठते ।आदावेव गृहीतं तत्स्वतः प्रामाण्यमुच्यते ॥

मूलम्

नन्वेवं संशयत्वाद्यमप्रामाण्यमपि स्वतः ।शक्यं ग्रहीतुं स्वेनानुव्यवसायेन वेति चेत् ॥

मूलम्

विपर्यस्वरूपं यत्त्वप्रामाण्यं न तत्तथा ।यद्गृह्यमाणवैरूप्यं स्वेन स्वग्राहिणाऽथवा ॥

मूलम्

तस्यादौ ग्रहणायोगे न विवादोऽत्र वादिनाम् ।इममंशमुपादाय स्वतःप्रामाण्यसंभ्रमः ॥