433 औपनिषदविशेषः

मूलम्

अत्र वेदान्तसिद्धान्ते विशेषांशोऽवधार्यताम् ॥

मूलम्

कथं पुनरनभ्यासदशायां तस्य संशयः ।इत्याशङ्का विपश्चिद्भिरेवमत्र समाहिता ।.

मूलम्

विशेषतो गृह्यमाणेष्वपि संशयदर्शनम् ।अभीक्ष्णं शुक्तिकामोहादन्धीकृतधियां मतम् ॥

मूलम्

यथोपलभ्यमानेऽपि कलधौतेऽस्ति संशयः ।यथेदं रजतं वाऽथ पूर्ववच्छुक्तिरेव वा ॥

मूलम्

तथाऽत्र गृह्यमाणेऽपि प्रामाण्ये किमियं प्रमा ।उुत पूर्वभ्रमवदप्रमा वेति दि संशयः ॥

मूलम्

अथात्र संदेहसहस्वतोग्रहणतः फलम् ।किं वा स्यान्निश्चयस्त्वन्याधीन एवेति चेच्छृणु ॥

मूलम्

शक्यं नियन्तुं ग्रहणमिह नास्मदपेक्षया ।सिद्ध एव्मुसर्तव्यः तत्प्रकारः परीक्षकैः ॥