मूलम्
अत्र नैयायिकाः प्राहुः परतो द्वयवादिनः ।प्रमाणत्वपरिच्छित्तौ विसंवदिति तत्कथम् ॥
मूलम्
अप्रामाण्यगृहीतौ वा तस्मिन् कस्मात् प्रवर्तते ।अतो द्वयं स्वत इति पक्षोऽस्मभ्यं न रोचते ॥
मूलम्
प्रयोजनस्य सिद्धत्वात्तत्परीक्षानपेक्षणात् ।नान्योन्यसंश्रयो नानवस्था वाऽत्र प्रसज्यते ॥
मूलम्
कौमारिलमतेऽपयेवमनवस्था दुरुद्धरा ।प्रामाण्यं ज्ञाततालिङ्गजन्यज्ञानेन गृह्यते ॥
टीका
न्या. कु.[2 स्त.]
मूलम्
तत्प्रामाण्यं तादृशेनेत्यनवस्था न किम नु सा ।स्वयंभानज्ञानवादिप्राभाकरगुरोर्मते ॥
मूलम्
प्रामाण्यस्य स्वतस्त्वं यत्तन्मानान्तरगोचरः ।तत्प्रामाण्यस्वतस्त्वं चाप्येवं सैषाऽनवस्थितिः ॥
मूलम्
तादृज्ज्ञानानपेक्षायामस्माकं सैव पद्धतिः ।रागोद्वेगात्पित्तधातुविकाराद्वा विसर्ज्यते ॥
मूलम्
स्वप्ने तु चरमो धातुः न दोषोऽतः प्रसज्यते ।स्वतःपरत इत्यस्य विवादस्य फलं त्विदम् ॥
मूलम्
वेदस्यापौरुषेयत्वपौरुषेयत्वनिर्णयः ।