मूलम्
अख्यातिपक्षे सर्वत्र सम्यगग्रहणं भ्रमः ।न मिथ्याप्रत्ययः कश्चिदस्ति शङ्कानिबन्धनम् ॥
टीका
प्रक.[4 प्र.]
मूलम्
अजातमिथ्याशङ्कश्च न संव्दमपेक्षते ।तस्मान्न कश्चित्परतः प्रामाण्यमधिगच्छति ॥
मूलम्
एवं स्वतः प्रामाणत्वे सिद्धे वेदेऽपि सा गतिः ।नेदं रजतमित्यत्र बाधार्थस्त्ववगम्यताम् ।.
मूलम्
यदेवेदं तदेवात्र रजतं त्विति नापि तु ।विविक्तं स्यादिदमिदं रजतं रजतं त्विति ॥