430 कुमारिलमतम्

मूलम्

अथ वैदिकसिद्धान्तः संग्रहेण विलिख्यते ॥

मूलम्

घटोऽस्तीत्यत्र विज्ञाने सन् घटो हि प्रतीयते ।प्रामाण्यमर्थसद्भावः स तु स्वेनैव गृह्यते ॥

मूलम्

प्राज्ञायतेऽतः प्रामाण्यं स्वत इत्युच्यते बुधैः ।अर्थक्रियाहेतुगुणसंवादैः क्रियते स्थिरम् ॥

मूलम्

अर्थान्यथात्वं नास्तित्वं अप्रामाण्यं तदिष्यते ।न तत्प्रतीयते भ्रान्तौ बाधज्ञाने प्रतीयते ॥

मूलम्

अप्रामाण्यं परत इत्यत एवाभिधीयते ।अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः ॥

मूलम्

वस्तुत्वाद्द्विविधस्यात्र संभवो दुष्टकारणात् ।अविज्ञाने तु दोषाणां व्यापारो नैव कल्प्यते ॥

मूलम्

कारणाभावतस्त्वेव तत्सिद्धं सौगतोक्तिवत् ।स्वतः परत इत्यस्य तत्त्वमित्थं बुधा विदुः ॥

मूलम्

तस्मात्सर्वप्रमाणानां प्रामाण्यं स्वत इष्यते ।न हि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ॥

मूलम्

अपिचेतरसंवादात्पूर्वपूर्वप्रमाणताम् ।वदन्तो नाधिगच्छेयुः अन्तं युगशतैरपि ॥

मूलम्

सुदूरमपि गत्वा तु प्रामाण्यं यदि कस्यचित् ।स्वत एवाभिधीयेत को द्वेषः प्रथमं प्रति ॥

मूलम्

अर्थक्रियाचेत्संवादः स्वप्ने सीमन्तिनीं विना ।न स्याद्धातुविसर्गोऽपि व्यभिचेरो महानयम् ॥

मूलम्

अथवाऽऽप्तफलत्वेन किं तत्प्रामाण्यचिन्तया ।कृतक्षौरस्य नक्षत्रपरीक्षावद्वृथा भवेत् ॥

मूलम्

तत्रापि नाप्रवृत्त्स्य प्रामाण्यपरिनिश्चयः ।एवमेव प्रवृत्तौ तु निश्चितेनापि तेन किम् ॥

मूलम्

तन्निश्चयात्प्रवृत्तौ वा पुनरन्योन्यसंश्रयः ।तन्निश्चयात्प्रवत्तिस्स्यात्प्रवृत्तेस्तद्विनिश्चयः ॥

मूलम्

उत्सर्गः ज्ञानसंयक्त्वं भूयो विषयलक्षणम् ।अपवादो वैपरीत्यं विषयाल्पत्वलक्षणम् ॥

मूलम्

यत्तत्त्वपक्षपातोऽस्ति स्वभावो हि धियामयम् ।अनुपप्लवभूतार्थसावभावस्य विपर्ययैः ॥

टीका

त. कौ.[64 का.]

मूलम्

न बाधोऽययत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ।इत्साहुरपि बाह्याश्च स्यात् प्रमाणं ततः स्वतः ॥

मूलम्

दोषतश्चाप्रमाणत्वे स्वतःप्रामाण्यवादिनाम् ।गुणज्ञानानवस्थावत् न दोषेषु प्रसज्यते ॥

मूलम्

साक्षाद्विपर्ययज्ञानाल्लघ्वेव त्वप्रमाणता ।पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिद्ध्यति ॥

मूलम्

एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः ।प्रार्थ्यते तावतैवैकं स्वतः प्रामाण्यमश्नुते ॥