मूलम्
अप्रामाण्यमवस्तुत्वान्न स्यात्कारणदोषतः ।वस्तुत्वात्तु गुणैस्तेषां प्रामाण्यमुपजायते ॥
मूलम्
इत्युत्पत्तौ प्रसिद्धं हि परतस्त्वं विपश्चिताम् ।अथ ज्ञप्तौ सत्त्वमर्थक्रियाकारित्वलक्षणम् ॥
मूलम्
व्याप्तं हि सत्त्वं भावानां क्रमतो यौगपद्यतः ।नित्येषु तु पदार्थेषु व्यापकानुपलम्भनात् ॥
मूलम्
तद्व्याप्तमपि सत्त्वं हि बलात्तेभ्यो निवर्तते ।क्षणिकत्वेन तान् भावान् सत्त्वं समवलम्बते ॥
मूलम्
ज्ञानोत्पत्त्यैव तद्धेतोरसामर्थ्यमपोद्यते ।असमर्थात्समुत्पादो दृश्यते न हि कस्यचित् ॥
मूलम्
समर्थकारणज्ञानादयं प्रामाण्यनिश्चयः ।इत्यतः परतस्त्वं तत्प्रामाण्यस्येति निर्णयः ॥
मूलम्
द्वितीयज्ञानसंवादादाद्यविज्ञानसंस्थितम् ।प्रामाण्यं गृह्यत इति विदुः केचन सौगताः ॥
मूलम्
अप्रामाण्यस्य संवादः प्रायशो नैव दृश्यते ।अप्रामाण्यं स्वत इति सिद्धान्तः तदभीप्सितः ॥
मूलम्
अर्थक्रिया वा संवादः गुणो वा परशब्दितः ।