428 सांख्यमतम्

मूलम्

प्रामाणत्वाप्रमाणत्वे स्वतः सांख्यास्स्माश्रितः ।नैयायिकास्ते परतः सौगताश्चरमं स्वतः ॥

टीका

श्लोक.[54]

मूलम्

प्रथमं परतः प्राहुर्वेदवादरताः पुनः ।प्रामाण्यं स्वत एवाहुः प्रतश्चाप्रमाणताम् ॥

मूलम्

सामान्येन विभागोऽयं क्रमेणाथोपपादनम् ।द्वयोस्स्वतस्त्वं वक्तॄणां सांख्यानामाशयस्त्वयम् ॥

मूलम्

सर्वं सवृत्तिकं चित्तं विदितं साक्षिणा सदा ।गृहीते एव ते स्यातामेकत्वाद्धर्मधर्मिणोः ॥

मूलम्

अप्रामाण्ये गृहीतेऽपि प्रवृत्तिर्योपलभ्यते ।मुग्धप्रवृत्तिवत्तत्र सैषा स्याद्वासनावशात् ॥

मूलम्

स्वतोऽसतामसाध्यत्वात् तत्स्वाभाविकमुच्यते ।ज्ञप्त्युत्पत्त्यविवेकोऽपि सिद्धान्तस्यास्य साधनम् ॥

मूलम्

कार्यकारणभावस्य मीमांसायामयं स्फुटः ।अथ सौगतसिद्धान्तसारांशोऽत्रोपपद्यते ॥