मूलम्
प्रामाण्यमविसंवाद इति सौगतपद्धतिः ।प्रमेयाव्यभिचारित्वं प्रामाण्यमिति चार्हताः ॥
मूलम्
प्रामाण्यमर्थताथार्थ्यं विपरीतं विपर्ययः ।तदर्थस्थमपि ज्ञानसंबद्धमिति वैदिकाः ॥
मूलम्
अर्थनिश्चायकत्वं स्यात्प्रामाण्यमिति तार्किकाः ।यथार्थविषयत्वं तत्स्यादित्यन्ये विदुर्बुधाः ॥
मूलम्
तद्वद्विशेष्यकत्वेनाविच्छिन्ना तत्प्रकारिता ।इति नव्यविनिष्कर्षः विशेष्यांशः स्वतो मतः ॥
मूलम्
प्रामाण्यमर्थजन्यत्वमप्रामाण्यमनर्थजम् ।इत्यपि व्यवहारोऽस्ति जयन्तादिमनीषिणाम् ॥
मूलम्
अर्थक्रियाकारिता तन्मतमित्यपरे विदुः ।प्रवृत्तेर्वा निवृत्तेर्वा स्यात्प्रयोजकता तु तत् ॥
मूलम्
इत्याहुरपरे प्राज्ञाः ते चाधिगतिवादिनः ।सर्वप्रमाणप्रामाण्यमेतादृगिति केचन ॥
मूलम्
शब्दप्रमाणप्रामाण्यमेतादृक्षमितीतरे ।एवं विकलपबीजं तु पुरस्तादवधार्यते ॥