मूलम्
नन्वध्यक्षेऽपि भेदोऽस्ति बाह्यान्तरविभागतः ।दिव्यादिव्यतया चक्षुःश्रोत्रादिभिदयाऽपि च ॥
मूलम्
अत्रेन्द्रियानपेक्षं यत् ज्ञानमर्थावभासकम् ।दिव्यं प्रमाणमित्येतत् प्रमाणज्ञाः प्रचक्षते ॥
मूलम्
परमेश्वरविज्ञानं मुक्तानां च धियस्तथा ।सञ्जयार्जुनवाल्मीकिप्रभृत्यार्षधियोऽपि तत् ॥
मूलम्
तद्वतपरोक्षस्यैकस्य प्रामाणस्य विभागतः ।अनुमानागमाद्याख्याः व भवेयुः कुतो भिदाः ॥
मूलम्
अत्रोच्यते श्रुतं दृष्टमेतच्चानुमितं त्विति ।लोकोक्त्या चोपलम्भेन त्रित्वादि प्रतिपेदिरे ॥
मूलम्
अतस्स्मृत्यनुभूत्याख्याविभागादपि नोचिता ।प्रमाणद्वित्वमित्युक्तिः भूयसां दृष्टिरिष्यते ॥