425 विभागसारांशः

मूलम्

विभागान्तरसारांशः प्राज्ञैस्त्वित्थं विशोधितः ॥

टीका

न्यायपरि.[ ]

मूलम्

बहुष्वेकैकमुद्धृत्य तदन्येष्वैकराश्यतः ।द्वैधक्लृप्तौ घटादावप्येवमेव प्रसज्यते ॥

मूलम्

अनुमाऽननुमानत्वशब्दाशब्दविभागतः ।प्रत्यक्षत्वापरोक्षत्वविभागान्न विशिष्यते ॥

मूलम्

स्पष्टमस्पष्टमिति च जैना यद्द्वैधमूचिरे ।तत्प्रत्यक्षपरोक्षत्वविभागान्न विशिष्यते ॥

मूलम्

अतो न तावति द्वैधे विवादोऽस्ति हि साधिते ।परोक्षस्यैकमानत्वं दुर्वचं भेददर्शनात् ॥