424 चार्वाकादिसिद्धान्ताः

मूलम्

प्रत्यक्षमेकं चार्वाकाः प्रमाणं प्रतिपेदिरे । अतीन्दिरिय पदार्था ये न विद्यन्ते हि तन्मते ॥

टीका

न्यायपरि.[21]

मूलम्

तेष्वेवैकेऽनुमानस्याप्यत्रान्तर्भाववादिनः । अनुमानप्रमाणादेरप्रामाण्यं परे विदुः ॥

मूलम्

प्रत्यक्षमनुमानं च काणादास्सौगता अपि । आगमः पौरुषेयत्वान्न ताभ्यामतिरिच्यते ॥

मूलम्

तत्र पूर्वेऽनुमाने हि शब्दान्तर्भावमूचिरे । अप्रामाण्यं परे केचिदन्तर्भावं तु केचन ॥

मूलम्

ते चागमं च सांख्याद्या अपि भूषणयायिनः । पूर्वेनादिं वेदमाहुः परे त्वीश्वरनिर्मितम् ॥

मूलम्

तानि स्मृतिं च काणादाः केचित् केचिच्च वैदिकाः । सोपमानानि तान्याहुः स्मृतिहीनानि गौतमाः ॥

मूलम्

आगमः पौरुषेयोऽपि स्वतन्त्रः समयान्मतः । संकेतग्राहकच्वेनोपमानमपि तन्मतम् ॥

मूलम्

तानि सार्थापत्तिकानि प्राहुः पाराभाकराः पुनः । अर्थापत्त्याऽतीन्द्रियार्थास्सिद्ध्यन्तीति हि तन्मतम् ॥

मूलम्

सादृश्यस्यातिरिक्तत्वादुपमानं पृथङ्मतम् । अभावानभ्युपगमात् षष्ठं मानं न चादृतम् ॥

मूलम्

तान्येवाभावषष्ठानि विदुः कौमारिलाः पुनः । मेयानुसारान्मानस्य भिन्नता तैर्विचिन्तिता ॥

मूलम्

संभवैतिह्ययुक्तानि तानि पौराणिका विदुः । ऐतिह्येन ह्यनेकेऽर्थाः पौराणिकमते मताः ॥

मूलम्

लिपिः लोकप्रसिद्धिश्च चेष्टा प्रातिभमेव च । अन्यैश्चान्यैः स्वतन्त्रैर्हि मानान्तरमितीष्यते ॥

मूलम्

स्वयंसिद्धं च दिव्यं च प्रत्यक्षमनुमाऽगमः । इति पञ्चविधं केचित्प्रमाणं प्रविविञ्चते ॥

मूलम्

स्पष्टास्पष्टविभेदेन प्रमाणद्वयवादिनः । जैनास्त एव प्रत्यक्षपरोक्षद्वयवादिनः ॥

मूलम्

स्मरणप्रत्यभिज्ञानुमानतर्कागमैः परम् । पञ्चप्रकारमित्याहुः पूर्वं त्विन्दिरियभेदतः ॥

मूलम्

प्रत्यक्षं च परोक्षं चापरोक्षमिति भेदतः । आत्माऽपरोक्षसंसिद्ध इत्यौपनिषदा विदुः ॥

टीका

न्या. म.[432]

मूलम्

केवलं चानुप्रमाणं चेति द्वेधा विभज्यते । प्रमाणमिति सिद्धान्तः जयतीर्थबुधेरितः ॥

टीका

प्रमाणपद्धतिः.[ ]

मूलम्

प्रमाणप्रक्रियेदानीमियमेषोपलभ्यते ।पूर्वापरे ह्यनन्तेऽस्मिन् काले कोऽङ्गीकरोति किम् ॥

मूलम्

निराकरोति वा कः किं देवो जानाति सर्ववित् ॥