मूलम्
वैशेषिकमतेऽप्येवमथौपनिषदे मते ।निर्विशेषविदः प्राहुः सच्चिदानन्दलक्षणा ॥
मूलम्
अनुभूतिः स्वप्रकाशा ब्रह्मात्मा ज्ञानमुच्यते । संविदेषा प्रकाशैकस्वरूपा सिद्ध्यति स्वतः ॥
मूलम्
प्रकाशरूपस्सविता स्वप्रकाशो यथोच्यते । निवृत्तगतिरप्यद्रिस्तिष्ठतीति यथोच्यते ॥
मूलम्
तथा स्वयंप्रकाशाऽसावित्युक्तिस्त्वौपचारिकी । प्रायेणापोहवादेन साध्यते निर्विशेषता ॥
मूलम्
परागर्थप्रमेयेषु या फलत्वेन सम्मता । संवित्सैव हि सिद्धान्तः वेदान्तोक्तिप्रमाणतः ॥
टीका
आत्मसिद्धिः.[21]
मूलम्
इति वार्तिककारोक्तिस्सिद्धित्रय उदाहृता । वृत्तिज्ञानं तु सांख्यादिसिद्धान्तवपीष्यते ॥
मूलम्
स्वरूपभिन्नं ज्ञानाख्यं द्रव्यंमात्माश्रितं सदा । प्रभावतः प्रभेवेति विशिष्टाद्वैतिनो विदुः ॥
मूलम्
धर्मभूतं च तत् ज्ञानं परिणामीत्युपेयते । यथा सांख्यमते चित्तं, तत्सर्वं धर्मधीर्मता ॥
मूलम्
द्वैतिभिस्तु स्वरूपस्य साक्षित्वात् ज्ञानतेष्यते । प्रसाददैन्यप्रमुखावस्था अप्यात्मनो मताः ॥
मूलम्
तथाऽपि तन्नित्य़तायाः विरोधो नैव कश्चन । यथाऽऽत्मा शाबरो नित्यः प्रायस्सर्वैस्तथेष्यते ॥
मूलम्
तथैव वृत्तिधीवादः सांख्यानामिव सम्मतः । सांख्यशाबरसिद्धान्तसमवाय इति स्थितम् ॥
मूलम्
यथार्थत्वं प्रमाणस्य लक्षणं परिकीर्तितम् । असतोऽपि भ्रमे भानोपगमान्न यथार्थता ॥