मूलम्
एतन्मतनिराकृत्यै गौतमेन हि सूत्रितम् । बुद्ध्यादित्रितयं चैतदनर्थान्तरमित्यपि ॥
मूलम्
अन्तःकरणवृत्तीनां बहिःकरणवृत्तिवत् । न ज्ञानताऽन्यथा भूतचैतन्यं स्याद्दुरुद्धरम् ॥
टीका
न्या. सू.[1-1-15]
मूलम्
आत्मानो हि गुणः ज्ञानं न क्रियेति हि तन्मतम् । आगमश्चाप्यपायश्च स्यातां तस्य निरन्वयौ ॥