मूलम्
अथ साङ्ख्यादिसिद्धान्ते प्रमाणपरिशोधनम् । अर्थोपलब्धिकरणं प्रमाणमिति तन्मतम् ॥
मूलम्
लक्षणं तद्विवरणं किंचिदत्र प्रदर्श्यते । विषयाकारिणी बुद्धिवृत्तिर्ज्ञानमितीर्यते ॥
मूलम्
बुद्धेस्सत्त्वसमुद्रेकोऽध्यवसायस्तु स स्मृतः ।इदं तावत्प्रमाणं स्यात् प्रबोधोऽनुग्रहः फलम् ॥
मूलम्
अनुग्रहश्च चिच्छक्तेः छायाऽपत्त्याऽर्थयोगिता । अतः पदार्था भिद्यन्ते बुद्धिज्ञानोपलब्धयः ॥