420 प्रभाकरव्याख्या

मूलम्

पराभाकरमते चापि क्रियैव ज्ञानलक्षणा ।तस्याः विषयसंवित्तिः फलमभ्युपगम्यते ॥

टीका

प्रक.[5 प्र.]

मूलम्

संवित्तौ फलरूपायां प्रकाशात्मस्वभावतः ।स्वरूपं भासते ग्राह्यरूपत्वेन घटादिकम् ॥

मूलम्

आत्मा तु ग्राहकत्वेन घटं जानाम्यहं त्विति ।आकारस्संविदो ज्ञेय एष तन्मतसङ्ग्रहः ॥