मूलम्
सिद्धान्तस्यास्य विवृतिः कुमारिलमता यथा ।ज्ञानं नाम क्रिया काचित्पुंसो व्यापारलक्षणा ॥
टीका
श्लोक.[318]
मूलम्
चितिशक्तेः कार्यभूता विकारः सूक्ष्म इष्यते ।फलानुमेया तस्याश्च फलं स्यादर्थदृष्टता ॥
मूलम्
तामावरणभङ्गोक्त्योपचरन्ति बुधाः परे ।धात्वर्थफलशालित्वं कर्मत्वमिति शिक्षिताः ॥
मूलम्
कारकाणां मिथो योगः स्यात्क्रियागर्भ एव हि ।स्थाल्यादीनि हि सिद्धानि साध्यं धात्वर्थलक्षणम् ॥
मूलम्
पाकमेकं पुरस्कृत्य संसृज्यन्ते यथा मिथः ।आत्मेन्द्रियमनोवस्तुसन्निकर्षादयस्तथा ॥
मूलम्
कुर्वन्ति कञ्चिद्व्यापारं सुसूक्ष्मं ज्ञानलक्षणम् ।इति कौमारिलमते ज्ञानतत्त्वं सुनिश्चितम् ॥
मूलम्
शब्दाधिकरणे चैतच्छ्रूयते श्लोकवार्तिकम् । बुद्धीनामपि चैतन्यस्वाभाव्यात्पुरुषस्य नः ॥
टीका
श्लोक.[833]
मूलम्
नित्यत्वमेकता चेष्टा भेदस्तु विषयाश्रयः ।व्याख्यात्रा विषयार्थोऽत्र सूक्ष्मः व्यापार ईरितः ॥