मूलम्
अथ शाबरसिद्धान्ते प्रमाणमिदमुच्यते । या बुद्धिर्जायते पुंसः प्रमाणं सैव कथ्यते ॥
टीका
न्या. र.[157]
मूलम्
बुद्धिजन्मनि पुंसश्च विकृतिर्यद्यनित्यता । अथाऽविकृतिरात्माऽयं प्रमातेति न युज्यते ॥
मूलम्
इति शाक्यविकल्पस्य भङ्गार्थमिदमुच्यते ।पुमान् विक्रियते चैवेतीष्यते बुद्धिजन्मना ॥
मूलम्
न तद्विकारमात्रेण वस्तुनो नाशसंभवः । कुण्डलादिविकारेऽपि सुवर्णादिपदार्थवत् ॥
मूलम्
उपादानदशाभेदः वस्तुनो जननक्रिया ।यस्य चानन्तरं सत्ता कार्यस्येत्यवगम्यते ॥
मूलम्
कारणे समवायस्तु कार्यस्यौलूक्यसम्मतः ।स नित्योऽतीन्द्रियश्चाक्षानधीन इति दूषणम् ॥
मूलम्
व्यापारः कारकाणां हि दृष्टो जन्मातिरेकतः ।प्रमाणेऽपि तथा मा भूदिति जन्म विवक्ष्यते ॥
मूलम्
बुद्धेर्जन्मैव विषये व्यापार इति कीर्त्यते । तदेवच प्रमारूपं तद्वती करणं च धीः ॥
मूलम्
ततश्च जायमाना सा प्रमाणं बुद्धिरिष्यते ।अतश्च बुद्धिजन्मेति सूत्रयामास जैमिनिः ॥