मूलम्
नैयायिकानां सिद्धान्ते प्रमाणमपि चेश्वरः ।तत्साधनादाश्रयाच्चाव्यतिरिक्तत्वमिश्रितम् ॥
टीका
न्या. कु.[4 स्त]
मूलम्
प्रामाव्याप्तं प्रमाणं स्यात् साधनं त्विन्द्रियादिकम् ।आश्रयस्तात्मवस्तु स्यात् तयोः प्रामाण्यनिर्णयः ॥
मूलम्
मितिस्सम्यक्परिच्छित्तिः तद्वत्ता च प्रमातृता ।तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते ॥