मूलम्
बौद्धाः प्रमाणफलयोरत्यन्ताभेदवादिनः ।यौगाः प्रमाणफलयोरत्यन्तं भेदवादिनः ॥
टीका
प्र. त.[90]
मूलम्
आर्हताद्याः पुनर्भेदाभेदवादिन ईरिताः । आत्मनः परिणामोऽयं ज्ञानमित्यभिधीयते ॥
मूलम्
विशेषस्सहजो ह्येष गुण इत्यार्हतं मतम् । प्रमाणत्वेन परिणाम्यात्मा फलतयाऽपि च ॥
मूलम्
स्यादन्यथा स्वपरयोः प्रमाणफलविप्लवः ।विज्ञानं स्वपराभासि प्रमाणं बाधवर्जितम् ॥
मूलम्
प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ।इति स्याद्वादिसिद्धान्तः शिष्टमन्यत्र विस्तृतम् ॥