415 योगाचारमतम्

मूलम्

ग्राहकाकारसंवित्त्योः त्रयं नातः पृथक्कृतम् ।मतद्वयनिरासांशो वार्तिके त्वित्थमुच्यते ॥

मूलम्

विषयैकत्वमिच्छंस्तु यः प्रमाणं फलं वदेत् ।सासाधनयोर्भेदः लौकिकस्तेन बाधितः ॥

टीका

श्लोक.[157]

मूलम्

स्वाकारश्च स्वसंवित्तिं मक्त्वा नान्यः प्रतीयते ।प्रामाण्यं यस्य कल्प्येत स्वसंवित्तिफलं प्रति ॥

मूलम्

स्वसंवित्तिफलत्वं तु तन्निषेधान्न युज्यते । प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः ॥

टीका

प्र. त.[1-3]

मूलम्

अविसंवादनमिति केचित् बौद्धाः प्रचक्षते ।इत्यतो विस्तरस्तत्र द्रष्टव्यस्सूक्ष्मदर्शिभिः ॥