मूलम्
स्वसंवित्तिफलत्वं तु वदतां मतमुच्यते । प्राभाकरास्तु विषयसंवित्तिफलवादिनः ॥
मूलम्
विषयाकार एवास्य प्रमाणं तेन मीयते । स्वसंवित्तिः फलं चास्य तद्द्वये ह्यर्थनिश्चयः ॥
मूलम्
इति सौत्रान्तिकमतं योगाचारमतं पुनः । यदाभासं प्रमेयं तत् प्रमाणफलते पुनः ॥