413 वैभाषिकमतम्

मूलम्

वैभाषिकैः पुनस्त्वर्थाधिगतिः फलमिष्यते ।प्रमाणमर्थसारूप्यं प्रमागतमिदं यथा ॥

टीका

न्यायबिन्दुटीका.[ ]

मूलम्

अर्थेन घटयत्येनां नहि मुक्त्वाऽर्थरूपताम् ।तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥

मूलम्

यथोत्पत्तावपि ज्ञानस्यास्ति प्रापकलक्षणः ।व्यापारोऽवश्यवक्तव्यः पुमान्येन प्रवर्तितः ॥

मूलम्

अर्थोऽपि स्यात्प्रापितश्च सैषार्थाधिगतिर्मता ।अर्थसारूप्यात्मकस्य प्रमाणस्य फलं हि सा ॥