412 शब्दव्युत्पत्तिः

मूलम्

प्रमाणशब्दव्युत्पत्तिः स्याद्भावे करणेऽपि च ।प्रमा प्रमाणमित्येके विदुस्तत्करणं परे ॥

मूलम्

तदन्यतरदित्यन्ये यथासंभवमिष्यते ।करणस्य प्रमाणत्वे प्रमायाः फलता मता ॥

मूलम्

प्रमायास्तु प्रमाणत्वे व्यवहारस्य सेष्यते । व्यवहारो ह्युपादानोपेक्षाहानधियो मताः ॥

मूलम्

प्रमाकरणमेवात्र प्रमाणं बहवो विदुः ।प्रमाविकल्पतत्चैतत्करणं च विकल्प्यते ॥