मूलम्
व्यापकोऽसाधारणो वा धर्मो लक्षणमुच्यते । तदुपस्थापनेनाप्तवाक्यं ह्यपि च लक्षणम् ॥
मूलम्
व्यवहारव्यवस्थैव लक्षणस्य प्रयोजनम् । असाधारणधर्मो हि भवेद्व्यावृत्तिलक्षणः ॥
मूलम्
लक्षणादधिके भेदे क्वावाऽतीतत्वसंभवः । तस्यैव तत्त्वे किं केन किमर्थं साधनं भवेत् ॥
मूलम्
व्यावृत्तेश्च फलत्वे तु तदेवमवगम्यताम् । शरीरं पार्थिवं गन्धवत्त्वात् घटपटादिवत् ॥
मूलम्
शरीरमाप्यं न भवेत् गन्धादित्येवमादिषु । शरीरादेः पारथिवत्वसंशयादेर्विशोधनम् ॥
मूलम्
एवं तदात्मना शङ्काविषयेष्वपि वस्तुषु । तल्लक्षणस्य राहित्यात्तदन्यत्वं हि सिद्ध्यति ॥
मूलम्
तस्यापि तेभ्यो वस्तुभ्यो व्यतिरेकः प्रसिद्ध्यति । लक्षणादेव तत्सिद्धेः व्यावृत्तिः फलमुच्यते ॥
मूलम्
तस्माद्धर्मः प्रमेयात्मा धर्मिनिष्कर्षमाचरन् । लक्षणं, न प्रमाणात्मेत्येष लक्षणनिर्णयः ॥
मूलम्
अतो न मानताऽन्येषां केवलव्यतिरेकिणः । त्र्यंशोऽवरोपितो भारः तेषां हैतुकभञ्जने ॥
मूलम्
इति न्यायपरीशुद्धिकृतां लक्षणनिर्णयः । भावान्तराभावविदां सर्वेषामेष सम्मतः ॥
टीका
न्यायपरि. अनुमानाध्यायः[ ]