410 प्रमाणचिन्ताफलम्

मूलम्

लोके प्रमेयव्यत्यासः प्रमाणव्यत्ययागतः ।अतः तत्त्वप्रबोधाय प्रवृत्ता मानचिन्तना ॥

मूलम्

प्रत्यक्षितसमस्तार्थैयोगीन्द्रैरपि लङ्घ्यते ।प्रमाणप्लवमालम्ब्य तत्त्वविप्लवसागरः ॥

मूलम्

अवकाशोपरोधाय तत्त्वोपप्लवमिच्छताम् ।अविपर्याससंसिद्ध्यै शोध्यते मानपद्धतिः ॥

मूलम्

सर्वोपजीव्यमध्यक्षं मानं प्रथममिष्यते । तन्मूलमनुमानं स्यात् आगमस्तूभयाश्रितम् ॥

मूलम्

उपमानादिकं मानं ततस्त्रितयमूलकम् । सर्वं त्वनन्यथासिद्धमूलमाश्रित्य वर्तते ॥

मूलम्

मानाधीना मेयसिद्धिः मानं मेयमपीष्यते ।उपधेयस्य साङ्कर्येऽप्युपाधेर्न हि संकरः ॥

मूलम्

आत्माश्रयादिदोषस्तु व्यक्तिभेदादपोद्यते ।इन्द्रियाणां च लिङ्गानां प्रभेदस्स्रवसम्मतः ॥

मूलम्

स्वत एव हि मानानां सिद्धिर्वेष्टा मनीषिभिः ।धीरस्तीति मतौ शब्दशब्दे लक्षणलक्षणे ॥

मूलम्

इष्टः स्वपरनिर्वाहस्सर्वमित्यादिधीष्वपि । पूर्वपूर्वोपदिष्टाद्वा मानसिद्धिर्हि लक्षणात् ॥

मूलम्

ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः । लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः ॥

टीका

शा. भा.[2-1-7]