409 प्रमाणस्थापनम्

मूलम्

इत्येवमादीन् सिद्धान्तान् वदन्तीति पुरोदितम् । तत्र विप्रतिपन्नानां युक्तिर्नयविदामियम् ॥

मूलम्

सर्वथा सदुपायानां वादमार्गः प्रवर्तते । माने विप्रतिपन्नानां वादमार्गो निरुध्यते ॥

टीका

श्लोक.[249]

मूलम्

न सर्वस्याप्रमाणत्वं स्वपक्षस्य स्वतः क्षतेः ।न सर्वस्य प्रमाणत्वं स्वपक्षस्यान्यतः क्षतेः ॥

मूलम्

प्रमाणस्य प्रमाणेन बाधः स्वव्याहतेर्हतः ।अप्रमाणेन तद्बाधे साधनं च ततो न किम् ॥

मूलम्

अहं सत्यं वदामीति स्वोक्तिः स्वपररक्षिणी ।न कदाचिद्वदामीति वादस्तु स्वोक्तिबाधितः ॥

मूलम्

मानस्थापकमानस्य मानसंक्षोभकस्य च ।गतिरेवमिति प्रेक्ष्य गहनां कुहनां त्यजेत् ॥

मूलम्

अथ वैतण्डिकस्यैषा सर्वसंक्षोभकस्य च । इष्टप्रसक्तिरिति चेदनिष्टं तेऽस्ति वा न वा ॥

मूलम्

नास्ति चेन्नैव दूष्योऽन्योऽप्यस्तिचेत्तत्प्रसज्यते ।इष्टानिष्टाविवेकस्तु तिरश्चामपि दुर्वचः ॥